SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२. ४. १२] रह्यसूत्रे। १२० तां हैके वैश्वदेवों ब्रुक्त आयीमेके सौर्यामेके प्राजापत्यामेके राचिदेवतामेके नक्षत्रदेवतामेके करतुदेवतामेके पितृदेवतामेके पशु देवतामेके ॥ १२ ॥ एतेऽटो देवताविकल्पाः। तत्र यदा आग्नेय्यष्टका क्रियते तदा वपापस्थालीपाकावदानानि त्रीण्यपि अग्नये स्वाहेति जुहुयात्। केवलस्थालीपाकमप्यनेनैव जुहुयात्। *एवमितरेय्वपि नेयं । तत्रानाद्यानां पक्षाणामयकत्वज्ञापनार्थमाद्ये हशब्दं पठितवान् । मन्त्रास्तावदष्टकार्थत्वेन ग्टह्यस्मृतिपारम्पर्येण स्मर्यन्ते । स्मृतिश्च प्रमाणं । एवमष्टकार्थत्वेन प्रमाणावगतेषु मन्त्रेषु तान् परित्यज्यान्यादीनां नामधेयेन शेम इत्येतदयुक्तं वनुमिति हृदि कृत्वा हशब्दं पठितवान् । तस्मात् सर्वदा मन्तैरेव होमः कार्य:. न कदाचिदपि नामधेयेनेति सिद्धम् । एतमेव पक्षमुत्तरत्रापि समर्थयते. वैश्वदेवों ब्रुवत इति बहुदेवत्यां ब्रुवत इति । अयमर्थः । या या मन्त्रेषु लिङ्गिनी सा मा सर्वात्र देवता भवति. नैवान्यादय एकैकैव देवता भवतीत्यर्थः । बहुदेवत्यो हि वैश्वदेवशब्दः श्रूयते. 'यथा प्रशशुक्रतुदेवी मनीषेति वैश्वदेवं' इति । उक्तं च नैरुक्तैः. 'यच्च किञ्चित् बहुदेवत्यं तवैश्वदेवानां स्थाने युज्यते' इति। प्रकारान्तरेणास्माभिर्भाव्यकारमतमेवानुसृतमिति निरवा । * + * एवमुत्तरेवपोति सं० पु. पाठः | + समर्थ इष्यत इति सं० पु. पाठः। * लिङ्गतेति सं० पु. पाठः । ++ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy