________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२९
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४.१३]
* श्रपि चैवं व्याख्या । श्राग्नेयोमेके । तेषामयमभिप्रायः सत्यं अष्टकार्थत्वेन मन्त्राणां स्मरणात् सर्वदा मन्त्रैरेव होमः कार्यः. तथाप्यायी भवति । श्रग्निरेव सर्वेषु मन्त्रेषु उद्देश्यो भवतीत्यर्थः । यानि तेषु देवतान्तरवाचीनि पदानि तानि कथञ्चिगाण्या लक्षण्या वा योगेन वा अग्निवाचीनि भवन्ति । यथा प्रयाजानामाग्नेयत्वे समिदादिशब्दास्तस्यैव कथञ्चिद्वाचकाः. * एवं मन्त्रा श्रपीति । एवमुत्तरेष्वपि पक्षेषु योज्यं । एवं देवताविप्रतिपत्तौ सत्यां शब्दं प्रयुक्तवान् । बहुदेवत्ये त्वयमेव पक्षो युक्तः लक्षणाद्याश्रयले कारलाभावादिति ज्ञापयितुं । प्रयाजेषु तु कारणं निरुकाद्दिज्ञेयम् ॥ १२ ॥
पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्जं वपामुत्खिद्य जुहुयाद्. वह वपां जातवेदः पितृभ्यो यचैनान्वेत्य निहिताः पराके मेदसः कुल्या उपैनान् स्रवन्तु सत्या एता आशिषः सन्तु सर्वः स्वाहेति ॥ १३ ॥
पशुकल्पेनेतिवचनं प्रोक्षणप्रतिषेधः पाशुकस्यैव प्रोक्षणस्य भवति न पश्वङ्गभृतस्थालीपाकप्रोक्षणस्येत्येवमर्थं । संज्ञप्येत्यनुवादः । उत्खिद्येतिवचनं उत्खिद्य सर्वदाऽनयेव वर्षां जुजयादित्येवमर्थं । तेनाग्न्यादिनामधेयेन होम इत्याद्याः पक्षाः निरस्ता भवन्ति ॥ १३ ॥
* कापि वैश्वदेवं येषां व्याख्या इति सं० पु० । | एवमत्रापीति सं० पु० पाठः ।
For Private and Personal Use Only