________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
__याश्वलायनीये
[२. ४. ११]
कार्या इत्याशङ्का स्यात्. तस्मात् श्वोभूतग्रहणं। पश्वङ्गभूतस्य स्थालीपाकस्याविधेयत्वात् स्थालोपाकान्तरमिदमिति अवगम्यते । चशब्दश्चायं वाशब्दस्य स्थाने द्रष्टव्यः । तेन पहना वा स्थालीपाकेन वेत्यर्थः। शास्त्रान्तरे च स्पष्टं वचनमस्ति. 'पशोरभावे स्था. लोपाकः प्रवर्तते' इति ॥७॥
अप्यनडुहो यवसमाहरेत् ॥८॥ अपिशब्दो विकल्पार्थः। एतद्नं भवति। पशः कार्यस्तस्यासम्भवे स्थालीपाकस्तस्याप्यसम्भवे अनडुहो यवसम्प्रयच्छेदिति । शकटवहनसमर्थो बलीबर्दोऽनवान् ॥ ८ ॥
अमिना वा कक्षमुपोषेत् ॥६॥ त्रयस्याप्यसम्भवे अमिना कन्नं दहेत्॥८॥
एष मेऽष्टकेति ॥ १० ॥ यवसदाने कक्षदहने च एवं मनमा ध्यायेदित्यर्थः ॥ १० ॥
न त्वेवानष्टकः स्यात् ॥११॥
इदमस्य प्रयोजनं। चत्वारः पक्षा: उक्तास्तत्र पूर्वालाभे उत्तरोत्तरः प्रवर्तत इति। एवमप्यष्टकाः कार्याः. न वेवानटकः स्यादित्यर्थः । अथ वा शास्त्रान्तरे यानि पक्षान्तराण्युनानि अपि वा अनूचानेभ्य उदकुम्भमाहरेत्. अपि वा श्राद्धमन्त्रानधीयीतेति । तथा वा कुर्यात् नत्वेवानष्ठकः स्यादित्यर्थः ॥ ११ ॥
For Private and Personal Use Only