________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४. ३]
ग्रह्यसूत्रे।
हेमन्तशिशिरयोश्चतुणीमपरपक्षाणामष्टमीवष्टकाः।
हेमन्त शिशिराहत। अपरपक्षाः कृष्णपक्षाः। अटका इति कर्मनाम। एतदुकं भवति। मार्गशीर्षादिचतुर्षु मासेषु ये कृष्णपक्षाश्चत्वारस्तेषु याश्चतस्रोऽष्टम्यस्ताखष्टकाः कार्या इति। ऋतु दयमध्ये यदि मलमास आगच्छति तस्मिन्मासे न कर्तव्यं इत्येवमर्थ चतुर्ग्रहणम् । अपि च बहुवचनस्य त्रिवेव चरितार्थत्वाच्छास्त्रान्तरदर्शनाच्च ऊर्ध्वमायहायण्यास्तिस्रोऽटका इति तिस्र एव स्युस्तनिवृत्त्यर्थं चतुर्थहणम् ॥ १ ॥
एकस्यां वा ॥२॥
एकस्यामेवाष्टम्यामएकाः कार्याः. चतसृषु वेति विकल्पः ॥ २॥
पूर्वद्युः पितृभ्यो दद्यात् ॥३॥
सप्तम्यामित्यर्थः । पिटशब्देन पिपितामहप्रपितामहा उच्यन्ते । 'अन्वष्टक्ये पिम्यो दद्याद्' इत्यस्यां चोदनायां पिण्डदानं दृष्टं । अतश्चोदनासामान्यादिहापि परिग्रह्यते। ब्राह्मणभोजनं च कायमिति वक्ष्यामः । तेन पूर्वेद्युः पिटभ्यः पिण्डान् भोजनं च दद्यादित्यर्थः। पिण्डदाने इतिकर्तव्यतापेक्षास्ति । दह च तस्या अनाम्नानात् प्रकरणान्तरविहितोऽपि पिण्डपित्त्यजकल्पः परिग्टह्यते। शक्यते चामी ग्रहीतुं शास्त्रसम्बन्धकरणात्। अपि चान्व
For Private and Personal Use Only