________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१.१०]
सूत्रे ।
पश्चादद्मेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य. स्योना पृथिवी भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा उदङ्मुखः॥ ६ ॥
R
यस्मिन् स्तरणे स्वयं शेते स स्वस्तरः स स्वास्तोणी भवति. स्वयमेव तमास्तृणणेयादित्यथः । तस्मिन् ग्रहणममात्यानामपि तत्रैव प्रापणार्थं । संविशेदिति शयीतेत्यर्थः । श्रमात्याः पुत्रादयो ग्टच्ह्याः । उदङ्मुखवचनं दक्षिणामुख निवृत्त्यर्थं ॥ ६ ॥
1
यथावकाशमितरे ॥७॥
अमात्या यथावकाशं प्राक्शिरम उदङ्मुखाः संविशेयुरित्यर्थः । उत्तरविवक्षाथमिदं ॥ ७ ॥
१२९
ज्यायान् ज्यायान्वानन्तरः ॥ ८ ॥
यो यो यस्माद्यस्मादृद्भूतरः स स ग्टहिणोऽनन्तरं संविशेत् । यथावकाशं वेति विकल्पः ॥ ८ ॥
मन्त्रविदा मन्त्रान् जपेयुः ॥ ८ ॥
स्योना पृथिवोत्यारभ्य स्वस्त्ययनपर्यन्तान् मन्त्रान् मन्त्रविदः सर्वे ब्रूयुर्टह्याः ॥ ८ ॥
संहाय. अतो देवा अवन्तु न इति चिः ॥ १० ॥
मंहायेत्युत्थायेत्यर्थः। प्राङ्मुखास्त्रिब्रूयुः ॥ १० ॥
For Private and Personal Use Only