SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२० www.kobatirth.org वाश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir [२.३.५] नाच सैाविष्टकृत् ॥ ४ ॥ मौविष्टकदिति स्विष्टकृदित्यर्थः सर्वत्र । अत्र कर्मणि यः स्विटकृत्स न कार्य इत्यर्थः । श्रसत्यग्रहणे प्रधानानन्तरं उच्यमानत्वात् प्रधानानन्तरं स्विष्टकृन्न भवतीत्यर्थः स्यात् श्रन्ते च स्यादेव । ननु प्रधानानन्तरं स्विष्टकृतः प्राप्तिरेव नास्ति । तथाहि । एताभ्यो देवताभ्यो वा विष्टकृतं हत्वा इत्यत्र सौविष्टकृतं जत्वेत्येतदपार्थकं । प्रधानानन्तरं स्विष्टकृतः प्रकृतितः प्राप्तत्वात् तत् कुर्वन् ज्ञापयति. अन्यत्र यान्यागन्तून्यङ्गानि विहितानि तत्र तानि कृत्वा पश्चात् स्विष्टकृत् कार्य इति । तर्हि प्रधानानन्तरं स्विष्टकृत्प्रतिषेधानङ्कानिवृत्त्यर्थमत्र - ग्रहणं कुर्वन् ज्ञापयति. अत्र प्रधानानन्तरमन्ते वा स्विष्टकृन्न भवतीति । तेनान्यत्र प्रधानानन्तरं कर्मणोऽन्ते वा स्विष्टकृदिति विकल्पः सिद्धः । अथवा सौत्रिष्टकृतं हुत्वेत्येतत् क्रमार्थं । असति तु तस्मिन् प्रधानानन्तरमेव प्राशनादि स्यात् । अत्र च प्रधानानन्तरं स्विष्टकृतः प्रकृतिप्राप्तत्वात् तस्य च प्रतिषेधे सति कर्मण्येव प्रतिषेधो भवति, कालान्तरे प्राप्यभावात् । एवं च मत्यत्रग्रहणं कुर्वन् ज्ञापयति. अन्यत्र कर्मान्ते वा स्विष्टकृद्भवतीति ॥ ४ ॥ अभयन्नः प्राजापत्येम्यो भूयादित्यग्निमीक्षमाणेो जपति शिवा नः सुमना भवेति हेमन्तं मनसा ध्यायात् ॥ ५ ॥ अर्थध्यानस्य मुख्यत्वेऽपि शब्दध्यानमेव कार्यमित्येवमर्थं मनोग्रहणं । मन्त्रमुक्का मनमा हेमन्तशब्दं सम्बुद्यन्तं ध्यायेत् मन्त्रेण समानाधिकरणत्वाय ॥ ५ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy