________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ३.३]
गृह्यसूत्रे ।
विवृतवान् । मार्गशीर्षी पौर्णमासो यस्मिन् मासे सोऽयं मार्गशीर्षी मासः । ‘सास्मिन् पौर्णमासीति सञ्ज्ञायाम् [पा०४.२.२१] इत्यण्प्रत्ययः । तस्मिन् मासे भवायां चतुर्दश्यां पौर्णमास्यां वेति विकल्प इत्यर्थः । नन्वेवं सति चतुर्दशोदित्वात् द्विः कर्म प्राप्नोति. न सकृदेव कार्यं ‘सकृत् कृते कृतः शास्त्रार्थः' इति न्यायात्. चतुर्दभ्यामित्येकवचनाच्च. पौर्णमास्या सह विकल्पाच्च । नन्वेवमपि शुक्ले कृष्णे वा स्यात् । न. पौर्णमासी साहचर्यात् शुक्ल एवेति ॥ २ ॥
I
११८
निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तर खैरस्त - मिते पायसस्य जुहुयुरपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणोरिमाः सर्वीश्च राजबान्धवीः स्वाहा न वै श्वेतस्याभ्यागारेऽहिर्जघान किश्वन। श्वेताय वैदावीय नमः स्वाहेति ॥ ३ ॥
पुनरिति वचनादाश्वयुजीकर्मण्यपीत्थमेवालंकरणमिति गम्यते । नवीकृत्य नवमिव कृत्वेत्यर्थः । तच्च एतैरित्याह । लेपनं कुड्या - दीनां । स्तरणञ्च तेषामेवाच्छादनं । उपस्तरणं भूमेः समीकरणं । नवीकृत्येति वचनात् * अपामार्गादीन्यपि उद्वास्यानि । एतावदहनि कर्त्तव्यं । अथास्तमिते पायमस्य एकदेशं जुहुयुर्मन्त्राभ्यां । 'तत्कालाश्चैव तद्गुणः' इति न्यायात्. उपलेपनाद्यरूमित एव कार्यं । बहुवचनं पूर्ववत्॥ ३ ॥
* उपामार्गीदीनीति सो० २ ० पाठः ।
For Private and Personal Use Only