________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
[२. २.३]
स्थालीपाकं निरुप्य जुहुयुः पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहेति ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याश्वलायनीये
निवेशनं ग्टहं. तत् प्रत्यवरोहणोक्तविधिनालङ्कृत्य सर्वे ग्टच्ह्याः स्नान्ति। स्नानवचनं विशेषेण स्नानार्थं. शौचार्थस्य स्मृतिप्राप्तत्वात् । शुचिवासोवचनं शुक्तवस्त्रप्राप्त्यर्थं । स्थालीपाकं जुजयुरिताक्तैव सिद्धे पशुपतये निरूप्येतिवचनं 'पशुपतये त्वा जुएं निर्वपामि' इत्येवं निर्वापप्रोक्षणे कुर्यादित्येवमर्थं । एवं ब्रुवता श्रदिष्टमन्त्रेषु पाकयज्ञेषु निर्वापप्रोक्षणे तृष्ण भवत इत्येतत् ज्ञापितं भवति । स्थालीपाकमिति द्वितीयानिर्देशेऽपि सर्वहुतत्वाशङ्का न कार्या I 'अथ दधिसक्तून् जुहाति' इत्यत्र हुवा दधिसक्तून् प्राश्येति शेषभावदर्शनात् । स्थालीपाकमिति स्थालीपाकस्यैकदेशमित्यर्थः । जुङयुरिति बहुवचनं गृहिण होमे क्रियमाणे पुचादयो ग्टच्ह्याः समन्वारभेरन्नित्येवमर्थं ॥ २ ॥
*
पृषातकमज्ञ्जलिना जुहुयात्. ऊनं मे पूर्यतां पूर्ण मे मापसदत् पृषातकाय स्वाहेति ॥ ३ ॥
पयस्याज्ये निषिक्ते तु तत् पयः स्यात् पृषातकं । उपस्तरणाभिघारणे अर्थादन्यः करोति । पृपातकं स्स्रुवेणावद्यति । धानावदस्य संस्कारः। सर्वत्र द्रवद्रव्याणि स्रवेणावद्यति । कठिनानि तु हस्तेन । स्वधितिना पशुं । चरोः पृषातकाच्च स्विष्टकृतेऽवद्येत् । हामशेषं समापयेत् । इतीदमाश्वयुजीकर्म ॥ ३ ॥
इत्युक्तेति सेा० २५० पाठः ।
For Private and Personal Use Only