________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह्यसूत्रे।
एव भवति नान्यो विधिरिति । मकवस्तावन्न निवर्तन्ते. कलशपूरणस्यादृष्टार्थत्व प्रसङ्गात् । दर्वी च न निवर्तते । 'दर्वीच बलिहरणोमित्यत्र बलिहरणोम्' [ग्ट ० २.१.२] इति विशेषणस्येदमर्थत्वात् ।
चिदेशश्च न निवर्तते. बलिहरणस्य भूमिमाध्यत्वेन प्रसिद्धत्वात् । अन्यत्सर्वं निवर्तते ॥ १४॥ प्रसङ्ख्याय हैके तावता बलोंस्तदहरेवोपहरन्ति॥१५॥
श्रावणों प्रतिपदमारभ्य यस्मिन्नहनि प्रत्यवरोहणं करोति मार्गशीर्षचतुर्दश्यां पौर्णमास्यां वा तस्मादर्वाचोनान्यहानि हासवृद्धिभ्यां परिगणनया तेष्वहःसु यावन्तः प्रातःमायङ्कालास्तावतो बलीस्तदहरेव दद्यात्. इत्येके मन्यन्ते। ह-शब्दोऽभिमतत्वज्ञापनार्थः सर्वत्र ॥ १५ ॥
इति द्वितीये प्रथमा कण्डिका ।। ।।
आश्वयुज्यामाश्वयुजीकर्म ॥ १॥ अश्वयुग्भ्यां युक्ता श्राश्वयुजी. तस्यां पौर्णमास्यामिति वर्त्तते । आश्वयुजोकर्मसंज्ञक कर्म कुर्यात् । अयोगेऽपि पूर्ववत् ॥ १ ॥ निवेशनमलंकृत्य वाताः शुचिवाससः पशुपतये
02
For Private and Personal Use Only