________________
Shri Mahavir Jain Aradhana Kendra
११०
www.kobatirth.org
[२.१.१४]
सम्बध्यते. माकांक्षत्वादस्य मन्त्रस्य । वीणावचनं प्रत्यमात्यं परिदानस्य अभ्यासः कार्ये न सर्वेषां नामानि निर्दिश्य महद्वक्तव्य - मित्येवमर्थं । पूर्वं पुत्रान्निवेदयति ध्रुवदेवदत्तं ते परिददामीति । ततोsप्रत्ता दुहिः. ध्रुवमावित्रीं ते परिददामीति । ततो भायी. ध्रुवसत्यवतीं ते परिददामीति ॥ ११ ॥
1
ध्रुवमान्ते परिददामीत्यात्मानमन्ततः ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बश्वलायनीये
परिदद्यादिति शेषः । उपदेशादेवान्तत इति सिद्धे अन्ततोवचनं पूर्वेण सम्बन्धार्थं । तेन पूर्वत्र परिददामीतिशब्दः सिद्धः ॥
॥ १२ ॥
नैनमन्तरा व्यवेयुरापरिदानात् ॥ १३ ॥
एनं बलिमात्मानं चान्तरा न व्यवेयुः । केचिदपि परिदानपर्यन्तं. आपरिदानादितिवचनात् । पूर्वमन्त्रसाध्यक्रिया परिदानमिति । गम्यते ॥ १३ ॥
ܬ
सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदाप्रत्यवरोहणात् ॥ १४ ॥
कलशात् सकनां दव पूरयित्वा राचौ देशे मन्त्रेण बलिं हरेदाप्रत्यवरोहणात् सायं प्रातश्च । श्राचतुर्दश्या पोर्णमास्या वा यस्मिन्नहनि प्रत्यवरोहणङ्करोति । मन्त्रोपदेशो नियमार्थः । मन्त्र
For Private and Personal Use Only