________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१.११]
एह्यसूत्र।
अपि वाऽममीपे देशे प्राच्यां दिशि शुची देणे अप आसिच्य मन्त्रेण सक्तून् जुहोति प्रक्षिपति। ततो नमस्करोति मंहताभ्यां पाणिभ्यां मन्त्रेण। हुत्वेति-वचनादग्नौ प्राप्ते तन्निवृत्त्यर्थं शची देश इति वचनम् ॥ ८ ॥
प्रदक्षिणं परीत्य पश्चादलेरुपविश्य साऽसि सर्पतां सपीणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सीन् यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सपी माहिंसिघुर्धवान्ते परिददामीति ॥ १० ॥
ब्रूयादिति शेषः। प्रदक्षिणं परीत्य बलिं । पश्चादस्योपविश्याह मन्त्रं । बलिग्रहणं पश्चाच्छब्दस्य कालवाचित्वशङ्कानिवृत्त्यर्थं । कालवाचित्वे सति साहुत्यन्तरमेव स्यात्। मन्त्रसञ्जकोऽयं मन्त्रः। तथा चोतं।
'इदं कार्यमनेनेति न क्वचित् दृश्यते विधिः । लिङ्गादेवेदमर्थत्वं येषान्ने मन्त्रसञ्जकाः' ॥ इति ॥
तस्मादपांर्भवति । यथाहुः। ‘ग्रह्यकर्मणि सर्वत्र जपानमन्त्रणाभिमन्त्रणोपस्थानमन्त्रकरणमन्त्रा उपांशु प्रयोक्तव्याः' इति ॥ १०॥
ध्रुवामुन्ते ध्रुवामुन्त इत्यमात्याननुपूर्व ॥११॥
परिदद्यादिति शेषः। उत्तरत्र दृष्टः परिददामिशब्दोऽत्रापि
For Private and Personal Use Only