________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१. २०.२४]
सर्व वा ॥२०॥ प्राश्नीयात् ॥ २० ॥ • अथाचमनीयेनान्वाचामति. अमृतापिधानमसीति॥
यत्तत्पूर्वमाचमनीयं निवेदितं तेनावाचामति मन्त्रेण ॥ २१ ॥
सत्यं यशः श्रीमयि श्रीः श्रयतामिति दितीयं ॥२२॥
दितीयग्रहणमाचमनीयप्राश्यर्थ. इतरथा मन्त्रस्योत्तरेण सम्बन्धः स्यात् ॥ २२ ॥
आचान्तोदकाय गां वेदयन्ते ॥२३॥ प्राचान्तग्रहणं शौचार्थमाचमनं कृत्वा कर्माङ्गमण्याचमनं कुर्यादित्येवम)। उदकवचनमाचमनीयनिवृत्त्य थे। तेनाचमने उदकान्तरं भवति ॥ २३॥
हता मे पाभा पामा मे हत इति जपित्वोकरते कारयिष्यन् ॥ २४॥
इमं मन्त्र जपित्वा ॐ कुरुतेति ब्रूयात् यदि कारयिय्यन्मारयिष्यन् भवति. तदा च दाता बालभेत। तत्र देवताः प्रागुक्ताः ॥ २४ ॥
For Private and Personal Use Only