________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१. २४. १६]
गृह्यसूत्रे |
दोहमशीयेति द्वितीयं मयि दाहः पद्याये विराज इति तृतीयं ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यावचनानि तु सर्वप्राशनपक्षे त्रिभिरेव मन्त्रैर्यथा सर्वं प्राशितं भवति तथा प्राश्नीयादित्येवमर्थानि । एवं भाय्यकारः । अन्ये त्वन्यथा व्याचख्युः। भृतेभ्यस्त्वेति मध्यात्तिरुच्य विराजो दोहोऽमीति प्रथममुद्दाहं प्राश्नीयात् । विराजो दोहमशीयेति द्वितीयमुद्दाहं । मयि दोह इति तृतीयमुद्धाहं । तृतीयवचनं सर्वप्राशनपक्षे तृतीयेन प्राशनेन यथा सर्वं प्राशितं भवति तथा प्राश्नीयादित्येवमर्थं । पद्यायै विराज इत्यत्र विराज इति षष्ठी । कुतः । पूर्वयोस्तथा दृष्टत्वात् । पद्यावे इत्यपि चतुर्थी षष्ठ्यर्थे । तेन तत्समानाधिकरण्ये सत्यपि षष्ठ्येव युक्ता कल्पयितुं ॥ १६ ॥
न सर्वं ॥ १७ ॥
प्राश्नीयात् न सर्वं ॥ १७ ॥
न तृप्तिङ्गच्छेत् ॥ १८ ॥
तृप्तिञ्च न गच्छेत् ॥ १८ ॥
ब्राह्मणायेोदङ्कुच्छिष्टं प्रयच्छेत्. अलाभेऽप्सु ॥ १८ ॥
ब्राह्मणाय उच्छिष्टं उद्भूतादवशिष्टं उदङ्मुखो मधुपर्कं प्रयच्छेत् । ब्राह्मणालाभे असु निषिश्चेत् ॥ १८ ॥
P 2
For Private and Personal Use Only