________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
[१. २३.२३]
न मांसमश्नीयुर्न स्त्रियमुपेयुराकतोरपवर्गीत् ॥ २१ ॥
क्रत्वादिप्रभृत्या श्रपवर्गीत् एते नियमा भवन्ति । वरणप्रभृतीति कल्प्यमाने यदि मध्यमोपमदि वरणं भवति तदा प्रागनियमः प्रसज्येत. तस्मात् क्रवादिप्रम्टतीति युक्तं । मध्यमोपमदि च शास्त्रान्तरे वरणं दृष्टं ।। २९ ॥
अश्वलायनीये
एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्याहुतिं हुत्वा यथार्थं प्रव्रजेत् ॥ २२ ॥
क्रत्वन्ते स्वस्य दक्षिणाग्नौ एतेनाग्म इत्येतया श्राज्यातिं जुहोति. नैमित्तिकत्वात् शास्त्रान्तरदर्शनाच्च मन्तलिङ्गाच्च । चक्रमेति हि भूतप्रत्ययः । तेन * क्रत्वन्त इति सिद्धं । यथार्थं प्रव्रजेदिति यथार्थ - माचरेत्. अनियमो भवतीत्यर्थः । हुत्वाऽनियमो भवतोति ब्रुवन् समाप्तेऽपि क्रतो होमपर्यन्तं नियमा भवन्तीति ज्ञापयति । श्राज्याअतिवचनं तन्त्रनिवृत्त्यर्थमिष्यते न परिस्तरण विकल्पार्थं ॥ २२
एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीम्मृषो न इत्येतयची ॥ २३ ॥ ॥ २३ ॥
एतयेतिवचनमेतया जुहुयादेवेत्येवमर्थं । तेनात्रापि तन्त्रं न भवति । ऋचेतिवचनमकृतविवाहोऽप्यार्त्विज्यं कृतवानेतया लौकिकानौ जुहुयादित्येवमर्थं । मधुपर्कप्रमङ्गादच ऋत्विग्वरणमाम्नातं ॥ २३ ॥ इति प्रथमे त्रयोविंशतितमा कण्डिका ॥ ● ॥
* कृत्वन्तर इति सं० पु० पाठः ।
For Private and Personal Use Only