________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २४.६] मृह्यसूत्रे।
१०३ ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥ दद्यादित्यर्थः ॥ १॥
स्नातकायोपस्थिताय ॥२॥ उपस्थिताय कृतसमावर्त्तनाय तस्मिन्नहनि ग्टहानभ्यागताय विवाहार्थिने च ॥ २ ॥
राज्ञे च ॥३॥ उपस्थिताय ॥ ३॥
आचार्यश्वशुरपितृव्यमातुलानाञ्च ॥ ४॥ प्राचार्यादीनां पूर्वयोरसमासेन निर्देशस्वतुल्यत्वज्ञापनार्थः । तेन स्नातकाय तदहरेव देयः। यत्रैनं पूजयिष्यन्तो भवन्तीति वचनात्. विवाहार्थिने च । राजे त्वहरहरभ्यागताय । श्राचार्यादीनां प्रति वत्सरोषितागतानां शास्त्रान्तरदर्शनादिशेधो लब्धः॥ ४ ॥ अप्रसिद्धत्वान्मधुपर्कखरूपमाह।
दधनि मध्वानीय॥५॥ आनयतिरत्र सेचनकमा. श्रामिच्येत्यर्थः ॥ ५ ॥
सर्पिी मध्वलाभे॥६॥ दूदं वचनं मध्वलाभे अयमेव प्रतिनिधिर्भवति नान्यस्तैलादिरित्येवमर्थ ॥ ६ ॥
अल्पत्वाद्दातुः कर्म पूर्वमाह ।
For Private and Personal Use Only