________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
आश्वलायनोये १. २२. १८] ब्राह्मणान् भोजयित्वा वेदसमाप्तिं वाचयोत॥१६॥
संस्थाजपान्तं कृत्वा ब्राह्मणान् भोजयित्वा वेदसमाप्तिं भवन्तो ब्रुवन्विति ब्रूयात्. ते च वेदसमाप्तिरस्विति बयुः ॥ १६ ॥
अत ऊर्ध्वमक्षारलवणाशी ब्रह्मचार्यधाशायी त्रिरात्रं हादशरात्रं संवत्सरं वा ॥ १७॥
श्रत ऊर्द्धमिति कस्मात्. पूर्वेण सम्बन्धकरणार्थम्। प्रयोजनमुपरिष्टावक्ष्यामः । ब्रह्मचारिवचनमाचार्यनिवृत्त्यर्थम् ॥ १७॥
चरितव्रताय मेधाजननं करोति॥१८॥ चरितव्रतायेतिवचनं मेधाजनेन व्रतस्य सम्बन्धार्थ। यत्रोपनयने मेधाजननमस्ति तत्रैव व्रतची। यत्र व्रतचर्या तवैवानुप्रवचनीयम्। उपनीतपूर्वस्य मेधाजननाभावे त्रितयमपि निवतते ॥ १८॥
अनिन्दितायान्दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति. सुश्रवः सुश्रवा असि यथा त्वं सुश्रुवः सुश्रुवा अस्येवं मां सुश्रवः सुश्रवसं कुरु । यथा त्वं देवानां यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपा भूयासमिति॥१६॥
* सौश्रवसमिति केवल मूले ।
For Private and Personal Use Only