________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
[१. २२. २२] ग्राह्य सूत्रे।
इदं मेधाजननं । तिस्रो निन्दिता दिशः। दक्षिणा. प्राग्दक्षिणा. प्रत्यग्दक्षिणेति । अन्याः सर्वा अनिन्दिताः । तस्यां दिश्येकमूलं पलाशं कुशस्तम्वं वा। पलाशाभावे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं ब्रह्मचारिणं वाचयति ‘सुश्रवः' इति मन्त्रम् । एकमूलमशाखमित्यर्थः। पुनः पलाशग्रहणमनेकमूलस्याप्यभावे कुश स्तम्बं परिषिञ्चदिति ॥ १८ ॥
एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्यातम् ॥२०॥
व्रतादेशनं यदस्माभियाख्यातं मंवत्सरावमं चारयित्वा 'व्रतमनुयुज्य' इति ‘मंवत्मरमादिशेत्' इति च। तत्राप्यतेन प्रकारेण वापनादि परिदानान्तं कार्यमित्यर्थः । वापनादिग्रहणमलङ्कारनित्यर्थं । 'काय वा परिददामि' [ग्ट ० १.२ ०.७] इत्येतत्परिदानं । परिदानान्तवचनमुपरितनतन्त्रनिकृत्त्यर्थं ॥ २० ॥
इत्यनुपेतपूर्वस्य ॥ २१ ॥ एतदुपनयनविधानमनुपेतपूर्वस्य. उत्तरविवक्षयेदमारभ्यते ॥
॥ २१॥ अथोपेतपूर्वस्य ॥२२॥ अनन्तरमुपेतपूर्वस्य विशेषं वक्ष्यामः ॥ २२ ॥
For Private and Personal Use Only