________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २१.२]
ग्टह्य सूत्र।
८७
अत्र परिसमूहनमनर्थकं. संस्कृतत्वादग्नेः । उच्यते। सायंप्रातः समिदाधाने पर्युक्षणपरिसमूहने यथा स्यातामिति परिसमूहनवचनं अत्र तु परिममूहनाद्यकृत्वैव तस्मिन्नेवाग्नी ब्रह्मचारी वृषणों समिधमादध्यात्। ब्रह्मचारिवचनमाचार्यनिवृत्त्यर्थं। *यस्मात् यत् प्राजापत्यं तत् वृष्णीं ब्रह्मचारी च प्राजापत्यः इति श्रूयते तस्मात् वृष्णों समिधमादध्यात्॥ १० ॥
इति प्रथमे विंशतितमा कण्डिका ॥०॥
मन्त्रेण हैके. अग्नये समिधमाहार्ष बहते जातवेदसे तया त्वमग्ने वईस्व समिधा ब्रह्मणा वयं स्वाहेति॥१॥
एके मन्त्रण समिदाधानमिच्छन्ति । हशब्दोऽभिमतज्ञापनार्थः । तेन पूर्वस्य श्रुत्यावरत्वेऽपि उभयोस्तुल्यत्वं सिद्धम् ॥ १ ॥
स समिधमाधायाग्निमुपस्पृश्य मुखं निमाष्टिं त्रिः. तेजसा मा समनज्मीति॥२॥
ब्राह्मचारी समिधमाधायाग्निमुपस्पश्य मखं निमार्टि मन्त्रण त्रिः। मन्त्रावृत्तिरता। स-ग्रहणं समिधौ वा जपेढेत्यत्र वक्ष्यमाणे विधिर्माभृत्. समिद्रहणमुभयोरपि पक्षयोरुत्तरो विधिर्यथा स्यात्
* तस्मादिति यादर्णे।
For Private and Personal Use Only