________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खाश्वलायनीये
६१. २१.५]
इति । प्राधाय-ग्रहणं 'सायंप्रातः समिधमादध्यात्' इत्यत्राऽपि यथा स्यात् ॥ २ ॥
तेजसा ह्येवात्मानं समनक्तीति विज्ञायते॥३॥
श्रुत्याकर्षः कथमग्न्युपस्पर्शनमपि त्रिः स्यादिति ॥ ३ ॥
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु. मयि मेधां मयि प्रजां मयोन्द्रं इन्द्रियं दधातु. मयि मेधां मयि प्रजां मयि सूया भ्राजो दधातु। यत्ते अमे तेजस्तेनाहं तेजस्वी भूयासं. यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं. यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं. इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयात्. अधीहि भूः सावित्री भो अनुब्रहीति॥४॥
षद्भिपस्थाय दक्षिणं जान्वाच्य विधिवदुपसंग्टह्याचार्य ब्रूयात् अधीहीति प्रेषेण ॥ ४ ॥
तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽईर्चशः सवीं ॥५॥
तस्य ब्रह्मचारिणः परिहितेन वासमा प्रावरणस्याऽनित्यत्वात् स्वस्य पाणिभ्यां च तस्य पाणी ग्रहोवा सावित्रीमन्वाह ॥ ५ ॥
For Private and Personal Use Only