________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीये
[१. २०.१०]
कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कत्वाकमुपनयते काय त्वा परिददामीति ॥ ७॥
जपेदितिशेष:. मन्त्रलिङ्गात्। प्रजापतये ब्रह्मचारी प्रदीयते । तेनाचार्यस्यायं मन्त्रः॥ ७ ॥
युवा सुवासाः परिवीत आगादित्यर्द्धनैनं प्रद क्षिणमावर्तयेत् ॥८॥
अनेनार्द्धर्चन एनं ब्रह्मचारिणं प्रदक्षिणमावर्तयेत् । एनमिति वचनं कथं आवर्तयितुमन्त्रः स्यान्नावल मानो बूयात् कुमार इत्येवमर्थ। अर्द्धर्चग्रहणनिवृत्त्यर्थं। अन्यथा 'ऋचं पादग्रहणे' [आश्व ० १.१.१७] इत्यृक् स्यात् ॥ ८ ॥
तस्यायंसौ पाणी कृत्वा हृदयदेशमालभेतातरेण ॥६॥
अधीत्युपरिभावे। ब्रह्मचारिणोऽसयोरुपरि स्वस्य पाणे कृत्वा तस्य हृदयदेशं स्पृशेदुत्तरेणार्द्धर्चन ॥ ८ ॥
अग्निं परिसमूह्य ब्रह्मचारी तूषणों समिधमाद. ध्यात् तूषणों वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते ॥ १०॥ ॥२०॥
For Private and Personal Use Only