________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.२०. ६]
गृह्यसूत्रे |
रिणोऽञ्जलो श्रात्मनोऽञ्जलिमवसिञ्चतीत्यर्थः । ततो देवस्य त्वेति मन्त्रेण तस्य पाणिं साङ्गुष्ठं गृह्णीयात् । श्राचार्याञ्जलिमर्थादन्यः पूरयति । श्रमिच्येतिवचनं कथं श्रचार्योऽवचारणं कुर्यात् न कुमार इत्येवमर्थम्। इतरथा पूर्णेनास्य पूर्णमवतारयतीत्युके कस्याञ्जलिं कोऽवचारयतीति सन्देहः स्यात् । श्रमिच्येतिवचनं तुच्यमाने समानकर्तृकत्वनिर्देशात् यः पाणिं गृह्णाति सोऽवसिञ्चतीति ज्ञायते । तेनाचार्येऽवक्षारयतीति सिद्धम् । सावित्यस्य स्थाने सम्बुड्या ब्रह्मचारिनाम ब्रूयात् ॥ ४ ॥
सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम् ॥ ५ ॥
सङ्ख्यावचनं प्रथमहस्तग्रहणदृष्टाञ्जलिपूरणादिधर्मप्राप्त्यर्थं ॥
॥ ५ ॥
પૂ
आदित्यमोक्षयेत्. देव सवितरेष ते ब्रह्मचारी तं गोपाय स माम्टतेत्याचार्यः ॥ ६ ॥
ततो ब्रह्मचारिणमादित्यमीक्षयेत् मन्त्रेणाचार्यः । श्राचार्य - ग्रहणं ज्ञापनार्थम् । श्रन्यत्रेक्षणे ब्रह्मचारिणो मन्त्रो नाचार्यस्येति । तेनादित्यमीक्षयेत्। ‘मित्रस्य त्वा चक्षुषा प्रतीचे' इत्यच ब्रह्मचारिणो मन्त्रः सिद्धः ॥ ६ ॥
For Private and Personal Use Only