________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१.२०. ४]
सर्वे वा सर्वेषां ॥ १ ॥
सर्वे दण्डाः सर्वेषां भवति पालाशादयः ॥ १ ॥
समन्वारब्धे हुत्वेोत्तरतेोऽग्नः प्राङ्मुख आचार्येऽवतिष्ठते ॥ २ ॥
श्राज्यस्य बर्हिव्यासादनान्तं कृत्वा समन्वारब्धे ब्रह्मचारिणि इमाधानाघारान्तं कृत्वा पूर्वोक्ताज्याजतीला उत्तरतोऽग्नेः प्राङ्मुख श्राचार्योऽवतिष्ठते । ब्रह्मचारी तु तीर्थेन प्रविश्य आचार्यस्य दक्षिणत उपविशेत्। तीर्थं नाम प्रणीतानां पश्चिमो देशः । सर्वच तोर्थेनैव प्रविश्य कर्म कुर्यात् ॥ २ ॥
पुरस्तात् प्रत्यङ्मुख इतरः ॥ ३ ॥
आचार्यस्य पुरस्तात् प्रत्यङ्मुखो ब्रह्मचारी श्रवतिष्ठते ॥ ३ ॥
अपामज्ञ्जली पूरयित्वा तत् सवितुर्दृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विने बहुभ्यां पुष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् ॥ ४ ॥
अपामुभयेोरञ्जली पूरयित्वा स्वस्य पूर्णेनाञ्जलिनाऽस्य पूर्णमञ्जलिमवक्षारयति तत् सवितुर्वृणीमह इति मन्त्रेण । ब्रह्मचारि
For Private and Personal Use Only