________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १७. १५]
ग्रह्यसूत्रे।
कृत्य मात्र प्रयच्छति ददाति । तानमा श्रानडहे गोमये निदधाति स्थापयति. नात्र प्रागग्रतानियमः ॥११॥
येन धाता वृहस्पतेरमेरिन्द्रस्य चायुषेऽवपत्। तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति द्वितीयं । येन भूयश्चरात्यं ज्योक च पश्याति सूर्य। तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृतीयं ॥ १२॥
मङ्ख्यावचनं मन्त्रान्तरप्रदर्शनार्थे । मन्त्रमध्येऽपीतिकारो विद्यत इत्युक्त। कुशपिङ्ग्लनिधानस्याभ्यात्मविधानार्थं भवितुं नाईति. अभ्यासस्य त्रीणि त्रीणि वीमयैव सिद्धत्वात्॥ १२ ॥
सर्वमन्त्रैश्चतुर्थं ॥१३॥
मवेस्त्रिभिमन्त्रैश्चतुर्थवारं छिनत्ति ॥ १३ ॥
एवमुत्तरतस्त्रिः ॥ १४ ॥
यथा दक्षिणे केशपक्षे. एवमुत्तरेऽपि केशपक्षे कुर्यात्तिः. परिसंख्येयं। उत्तरे केशपने विरेव. न चतुर्थमिति॥ १४ ॥
क्षुरतेजा निमजेत. यत् क्षरेण मर्चयता सुपेशसा वप्ता वपसि केशान्। शुन्धि शिरो मास्यायुः प्रमोषीरिति ॥१५॥
For Private and Personal Use Only