SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याव लायनीये [१. १७.५] पूरणं स्यात्. यथा सर्पिर्मधुनी हिरण्यनिकाषमित्यमिश्रितानां प्राशनं । अथवा सत्यपि समासोपदेशे यथाकामं ब्रीहियवतिलरित्यत्रैकं द्रव्यम्भवति. एकेन कृतार्थत्वात्. एवमिहाप्येकं द्रव्यं प्रमज्येत तन्नित्यर्थं पृथग्ग्रहणं ॥ २ ॥ कथं पृथग्भूतानां सर्वेषां द्रव्याणां पूर्णशरावाणि निधीयेरनिति। पश्चात्कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति ॥३॥ अग्नेः पश्चात्कारयिष्यमाणः कुमारः। तत्प्रयुक्तं हि चोलं. एवं च कृत्वा संस्कारकर्मसु व्यवायपरिहारेणु कार्येषु कुमारोऽन्तरतम इति दर्शितं भवति. मातुरुपस्ये उत्सङ्गे प्रास्ते । श्रानडुहङ्गोमयं नवे शरावे उपनिहितं भवति। शमीपर्णानि चान्यस्मिन्नवे शरावे उपनिहितानि भवन्ति ॥ ३ ॥ मातुः पिता दक्षिणत एकविंशतिकुशपिलान्यादाय ॥४॥ मातुर्दक्षिणतः. पिता एकविंशतिकुशपिङ्ग्लान्यादायास्ते । मातुर्ग्रहणं मातुः सकाशात् दक्षिणतो यथा स्यात् तथा. अग्नेर्दक्षिणतो माभूदिति ॥ ४ ॥ ब्रह्मा वैतानि धारयेत् ॥५॥ एतानि कुशपिञ्जूलानि ब्रह्मा वा धारयेत् यद्यस्ति ॥ ५ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy