________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.२]
ग्रह्यसूत्रे।
*अकाममयोगेन दध्यादिमिश्रमन्नं प्राशयेत्. अन्नपतेऽन्नस्य न इति मन्त्रण। अयं मन्त्रः सर्वप्राशनेम्वपि भवति। कुतः। प्राशनसहितत्वात् मन्त्रस्य. प्राशयेदित्यस्य च सर्वशेषत्वात्। पिाजं प्राशयेदित्यादि ॥ ५॥
आरतैव कुमाय्य ॥ ६॥ ॥१६॥ कुमास्त्वमन्त्रकमन्नप्राशनं कार्यमित्यर्थः ॥ ६ ॥
इति प्रथमे घोडशी कण्डिका ॥०॥
तृतीय वर्षे चौलं. यथाकुलधर्म वा ॥१॥ कुलधर्मोपदिष्टे वा काले चौलं कार्य । जन्मप्रति हतीये वर्षे वा कार्यमिति व्यवस्थितविकल्पः। केषाञ्चिदुपनयनेन सह स्मर्यत इति॥१॥
उत्तरताऽने/हियवमाषतिलानां पृथक पूर्ण शरावाणि निदधाति॥२॥
प्रणीताप्रणयनोत्तरकाले उत्तरतोऽनेः ब्रोहियवमाषतिलानां पूर्णशरावाणि निदधाति स्थापयति । पृथग्ग्रहणं द्रव्यभेदार्थ । पृथक् पूरयित्वा निदध्यादिति. अन्यथा समामोपदेशान्मिश्रितानां * मनकामसंयोगेनेत्युड़तपाठः संयु० । + बाज्य मिति सं०प० पाठः ।
For Private and Personal Use Only