SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir या श्वलायनोये [१. १५. ३] अंसावभिमशति. अश्मा भव परशुर्भव हिरण्यमस्तुतं भव । वेदो वै पुचनामासि स जीव शरदः शतं इति। इन्द्र श्रेष्ठानि द्रविणानिधेह्मस्ले प्रयन्धि मघवन्नजीषिनिति च ॥३॥ स्तनवाहोर्मध्यादेशोऽसः । अत्र बहुधा वितिपन्नाः तत्रेके सहनमन्त्रं पर्यायेणसाभिमशनमिच्छन्ति. द्वाभिमर्शनवत् । ननु युक्तस्तत्र सन्मन्त्रः. दिवचनयुक्तत्वात् मन्त्रस्थ. इह त्वेकवचनयुक्तः । अत श्रावृत्त्या भवितव्यं। नैतदेवं । नात्रांसावुच्येते. किन्तईि कुमारः स चैकः. तस्मान्नावृत्तिरिति । अन्ये मन्त्र विभागमिच्छन्ति । अश्मा भवेत्यनेन दक्षिणमंसमभिशेत् । इन्द्र श्रेष्ठानि. अस्मे प्रयन्धि. इत्याभ्यां सव्यमिति । कथं पुनमन्त्र विभागो ज्ञातः । मध्ये इति-करणात् । नहि क्वचित् मन्त्रमध्ये इति-करणं पठन्ति । अपरे वाहुः सकृदेव त्रयो मन्त्रा वनव्याः। न च मन्त्रविभागः । न च पृथगभिमर्शः । दार्याभिमर्शने त्वशक्यत्वात् पृथगभिमर्श:. इह तु शक्यते युगपदंसो स्पर्छ । यत्पुनरुतमिति-करणदिति। तत्र ब्रूमः । अन्यत्रापि मन्त्रमध्ये इति-कार: पद्यते. यथा आसोद सदनं स्वमामीद सदनं खमिति माहिंभीर्देवप्रेरित इति। अयमेव नः पक्षोऽभिप्रेतः । यस्य त्रयाणामन्यतमः पक्षोऽभिप्रेतः तस्याऽपि कुर्वतो न दोषः. सर्वेषां गमकवत्त्वादिति भाष्यकारः। अत्रैक मन्त्र विभागः श्रेयानित्याहुः. मध्ये इति-कारात्। नन्वन्यत्रापि विद्यत इत्युकं । तत्रापि विभाग एव. किमुत्यतमोति बर्डिषि निधाय माहिंसोरित्यभिम For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy