________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १५. २]
रह्यसूत्रे ।
मुपनयेदितापनयनं कुमारस्यैव यथा स्यात् न कुमार्या इति । ननु. ब्राह्मणमिति पुंलिङ्गनिर्देशादेव न भविष्यति। न. जातिनिदेशे लिङ्गमविवक्षितं। यथा ब्राह्मणे न हन्तव्य इति ब्राह्मए पि न हन्यते. एवमत्रापि स्त्रियाः प्रसज्येत. तन्नित्त्यर्थं कुमारग्रहणमिति। जातग्रहणमष्यधिकारार्थ । 'गोदानं घोडशे वर्षे' इति जन्मतः प्रभृति घोडशो यथा स्यात्. उपनयनप्रति माभूदिति । पुरा पूर्वमित्यर्थः। अन्यग्रहणमनधिकतालम्भनात् प्राक् कर्म कर्तव्यमित्येवमथे। सर्पिर्मधुनी हिरण्येन *निकाशयति। ते हिरण्यसंसृष्टे हिरण्येन प्राशयेत्. मातुरुपस्थ आसीनं प्रते ददामीति मन्त्रेण ॥ १ ॥
कर्णयोरुपनिधाय मेधाजननं जपति। मेधान्ते देवः सविता मेधां देवी सरस्वती। मेधान्ते अश्विनौ देवावाधत्तां पुष्करखजौ ॥
__ इति ॥ २॥ अस्य कर्णयोः हिरण्यं निधाय मेधाजननं जपति. मेधान्त इति। उपग्रहणं तस्य मुखसमीपे आत्मनो मुखं निधाय जपा) मेधाजननमित्यस्य मन्त्रस्याख्या सन्मन्त्रः । पर्यायेणेपनिधानमित्येके । अन्ये मन्त्रावृत्तिमिच्छन्ति ॥२॥ * निकाशयतीत्यस्य स्थाने अवघर्षयतीति सं० पु. पाठः। + कर्ण योरित्यादि जपत्यन्तं पूर्वसूचशे घेऽसम्यक्त या धादर्श पुस्तके निहितमस्ति । सं• का० पुस्तके तु एवमेवे त्यतः तत्तस्मादुडत्यात्र निवे. शितम् । .
K
2
For Private and Personal Use Only