________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्राह्यसूत्र।
एवं बीन प्रसृतान् ॥ ४॥
अनेन विधिना त्रीन् प्रसृतान् प्राशयेत् । एकस्मिन् प्रसृते प्राप्ते त्रयः प्रसृतास्तुख्यधाणो विधीयन्ते ॥ ४ ॥
अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधी नस्तःकरोति ॥५॥
कर्मान्तरत्वात् कालान्तरप्राप्तावानन्तर्यार्थोऽथशब्दः । इदन्त्वनवलोभनं। कुतः। 'माहं पौत्रमचं नियाम्' [ग्ट ० १।१३।७] इति मन्त्रलिङ्गात् । पुत्रसम्बन्धि अशोभनं माहं नियामित्यर्थः । अस्यै अस्थाः. मण्डलागारं कृत्वा तस्य छायायामुपवेश्यास्याः दक्षिणस्यां नासिकायां दूवीं नस्तःकरोति। दक्षिणग्रहणमिन्द्रियाणामनङ्गत्वज्ञापनाथ। अजोलेति गुणनाम. अजीर्णत्यर्थः । मा चौषधी दूर्वेटपदिशन्ति । नस्तःकरणं नासिकायां रमसेचनम् ॥ ५ ॥ प्रजावज्जीवपुत्राभ्यां हैके. *आ ते गभी योनिमेतु पुमान्वाण इवेषुधिं ।
आ वीरो जायतां पुत्रस्ते दशमास्यः॥ अग्निरेतु प्रथमा देवतानां सैोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् ।
* था ते इत्यादि न रोदादित्यन्तं सूक्त हयं केवल सूचशेषत्वेन मूलपुस्तके वर्तते, नापरयोः सटीकयोः पुस्तकयोरिति ।
For Private and Personal Use Only