________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. १३. ३]
।
मामो गर्भमासः । तिष्येणेति 'नक्षत्रे च लुपि' [पा • २.१.४ ५ ] इत्यधिकरणे ढतीया । तिय्येलेति प्राशनकर्मणा सम्बध्यते तस्य प्रधानत्वात्. नोपवासेन गुणत्वात् । तेन पुनर्वसुना उपोषितायाः पत्न्याः तिय्येदं कर्म करोति । तत्र प्राजापत्यस्य स्थालीपाकस्याज्यभागान्तं कृत्वा वच्यमाणं कर्म कुर्यात् । समानं रूपं यस्य म मरूपः । मरूपा वत्मो यस्या: सा तथोक्ता । गोग्रहणं सरूपवत्साया अभावे असरूपवत्सा गौग्रीह्या नासरूपवत्सान्त्यजेदित्येवमर्थं । इति पाठान्तरं न सरूपवत्सान्यजेदित्येवमर्थं । वीणावचनं कथं प्रतिप्रस्सृतं द्वौ द्वौ माषैौ स्यातामिति । यदि वोसा न क्रियेत स्थालोस्थदधन्येव माषयोर्यवस्य च प्रक्षेपः स्यात्. तस्य सप्तमीनिर्दिष्टत्वात् तस्मादावृत्त्यर्थं वीणावचनं । पुनर्दधिग्रहणं दध्नः प्राशनार्थं. अन्यथा पूर्वस्य सप्तमीनिर्दिष्टत्वात् दभ्रः प्राशनं न स्यात् । प्रस्टते दधि प्रक्षिप्य तस्मिन्दधनि माषयवानां प्रक्षेपणार्थं पूर्वं दधिग्रहणम् । अण्डरूपेण माषो दद्यात्, शिनरूपेण यवं. तथा दृष्टत्वात् ॥ २ ॥
किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनमिति चिः प्रतिजानीयात् ॥ ३ ॥
किं पिबसीति प्रश्नः । पुंसवनमिति प्रश्नः । * तत्रेतिप्रश्न त्रिग्रहणमाचार्येण कृतं श्रतस्तस्यैव चित्वमाप्तौ उभयोस्तुल्यत्वज्ञापनार्थं उमुयत्र वोशावचनं । तेन प्रश्नोऽपि त्रिर्वाच्य इति सिइम् ॥ ३ ॥
* प्रतिप्रसृते इति सेो० पु० पाठः ।
For Private and Personal Use Only