________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर
घाश्वलायनीये
[१. १२.५]
पलाशेन दूतं वोवधञ्च कुर्यात् । यत्र वेच्छेत्यूचा द्वौ पिण्डौ कृत्वा पोवधेऽभ्याधाय दूताय प्रयच्छत् । तयोरेकं पिण्डं निर्दिश्य दूतं वदति. दूर्म तस्मै बलिं हरेति । अपरं दूताय प्रयच्छति. अयं तुभ्यमिति । एतयतिवचनं अन्यत्र पादग्रहणेऽपि क्वचित् सूत्र भवतीत्येवमर्थ । तेन श्रात्वाहार्षमन्तरेधीति. ऋषभं मा समानानामिति च सूक्तं मिद्धम् । अन्ये पुनरभ्यासार्थं मन्यन्ते. पिण्डकरणे वीवधाभ्याधाने दूताय प्रदान इति ॥ २ ॥
प्रति भयं चेदन्तरा शस्त्रमपि किञ्चित् ॥३॥
कर्तुश्चैत्यस्य च मध्ये भयमस्ति चेत् शस्त्रमपि किञ्चित् दद्यात् दूताय ॥ ३ ॥
नाव्या चेत् नद्यन्तरा लवरूपमपि किञ्चिदनेन तरितव्यमिति ॥४॥
उभयोर्मध्ये यदि नावा तार्या नदी स्यात् तदा प्लवरूपमपि किञ्चित् दद्यात्. अनेनेति मन्त्रेण ॥ ४ ॥
धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत् ॥५॥
॥१२॥
यदि धन्वन्तरिश्चैत्यो भवति तदा ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत्. पुरोहिताय नम इति. ततो धन्वन्त
For Private and Personal Use Only