________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.११.६]
गृह्यसूत्रे |
करोति । यथा उप प्रयन्त इति ते इति । तस्मादृचौ भवत
इति सिद्धम् ॥ २
व्रीहियवमतीभिरद्भिः पुरस्तात् प्रोक्षति. अमुष्मै त्वा जुष्टं प्राक्षामीति ॥ ३ ॥
५३
ब्रोहियवमिश्राभिरद्भिः पशुं पुरस्तात् अग्रतः प्रोक्षति. श्रमु त्वेति मन्त्रेण ॥ ३ ॥
तासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयेत् ॥४॥
तामां ब्रीहियवमतीनामेकदेशं पशुं पाययित्वा दक्षिणं बाहुं अनु शेषं निषिञ्चेत् । तासां ग्रहणं प्रोक्षणप्रतिषेधेऽपि श्रष्टकायां पायनं यथा स्यादित्येवमर्थं ॥ ४ ॥
तैव पर्यमि कृत्वादचं नयन्ति ॥ ५ ॥
श्रावृतैव पर्यनि कृत्वा पशुमुदचं नयन्ति । श्रावृतैव तूष्णीमेवेत्यर्थः। मन्त्रप्रतिषेधो मन्त्रवजे. अन्ये धर्मस्त्रेतायां दृष्टा:. कथं स्युरिति त्रिःपर्यनिकरणादयः ॥ ५ ॥
तस्य पुरस्तादुल्मुकं हरन्ति ॥ ६ ॥
तस्य पशोः पुरस्तादग्रतः उल्मुकं प्रदीप्तं काष्ठं हरन्ति । तस्यग्रहणमग्रतो नयनं यथा स्यात् नापि पूर्वेण नापि प्रथममित्येवमर्थम्। अन्यथा पुरस्ताच्छब्दस्याऽनेकार्थत्वात् दिक्कालवाचिनोऽपि ग्रहणं स्यात् ॥ ६ ॥
For Private and Personal Use Only