SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ' [१.१०.२४ ] नाच हवींषि प्रत्यभिघारयति स्विष्टकृतं विरभि घारयति ॥ २१ ॥ Acharya Shri Kailassagarsuri Gyanmandir आश्वलायनीये स्विकृति हविःशेषं न प्रत्यभिघारयति । अत्र - ग्रहणमत्रैव नाभिघारयति न प्रधान हविः स्वित्येवमर्थं । हविःशब्दः शेषे वर्त्तते । यद्यवन्ते वर्त्तेत * चतुरवत्तताऽऽजतेर्न स्यात् । तन्न चेव्यते ॥ २१॥ यदस्य कर्मणेोऽत्यरीरिचं यदा न्यूनमिहाकरं । अग्निष्टत्स्विष्टकृत् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समईयित्रे सर्वन्नः कामान्त्समईय स्वाहा इति ॥ २२ ॥ अनेन मन्त्रेण स्विष्टकृतं जुहुयात् ॥ २२ ॥ बर्हिषि पूर्णपात्रं निनयेत् ॥ २३ ॥ यत् पूर्वं निहितं पूर्णपात्रं तदधुना बर्हिषि निनयेत्. निषिश्चेदित्यर्थः ॥ २३ ॥ एषोऽवभृथः ॥ २४ ॥ यदिदं पूर्णपात्र निनयनं एषोऽस्य कर्मणोऽत्रम्टथेो भवति । श्रवभृथवचनं श्रवम्थधर्मप्राप्त्यर्थं । तेन कालोऽभ्यचणञ्च भवति । * चतुरवत्ताच्चानिः स्यादिति सं० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy