________________
Shri Mahavir Jain Aradhana Kendra
8C
www.kobatirth.org
वाश्वलायनोये
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.१७]
उत्तरमाग्नेयं दक्षिणं सौम्यं ॥ १४ ॥
अनेरुत्तरपार्श्वे श्रमेयमाज्यभागं जुहुयात्. दक्षिणपार्श्वे तु सौम्यं । स्रुवेणाभा जुहुयात् पूर्ववत् ॥ १४ ॥
विज्ञायते चक्षुषी वा एते यज्ञस्य यदाज्यभागी ॥ १५ ॥
श्राज्यभागो यज्ञस्य चक्षुषी इत्येवं श्रूयत इत्यर्थः ॥ १५ ॥ ततः किमित्याह ।
तस्मात् पुरुषस्य हि प्रत्यङ्मुखस्यासीनस्य दक्षिणमध्युत्तरं भवत्युत्तरं दक्षिणम् ॥ १६ ॥
.
यज्ञपुरुषस्य हि प्रत्यङ्मुखस्यामोनस्य दक्षिणमच्युत्तरं भवत्यु - त्तरं दक्षिणं. तस्मात् दक्षिणसंस्यैव शक्या कर्तुं नोदक्संस्थेत्यर्थः । श्रुत्याकर्षोऽन्यच क्वचिदुदकमंस्थाऽपि यथा स्यादिति । तेन बलिहरणे प्रधानानामुत्तरतः पुरुषेभ्यो बलिहरणं सिद्धम् ॥ १६ ॥
मध्ये हवींषि प्रत्यक्तरं वा प्राक्संस्थान्युदक्संस्थानि वात्तरपुरस्तात् सैौविष्टकृतम् ॥ १७ ॥
मध्यप्रदेशे हवींषि जुहोति । प्रत्यक्तरं वा देशे वोंषि वा जुहोति । प्रत्यक्तरमिति द्वितीया सप्तम्यर्थे । तत्रापि देशे प्राक्संस्थानि वा जुहोति. उदक्संस्थानि वा । ननु प्राक्मस्थानीत्यस्मिन्नमत्यपि उदक्संस्थानि वेति वाशब्दप्राप्तया प्राक्संस्थया सह वि
For Private and Personal Use Only