________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.१२]
गृह्यसूत्रे |
तानि हवींष्यभिघार्येौदगुद्दास्य " बर्हिष्यासाद्येध - मभिघायीऽयन्त इम आत्मा जातवेदस्तेनेध्यस्व वर्डस्व चेड वर्द्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति ॥ १२ ॥
४७
उत्तरतोऽग्नेराज्यमुत्यूयाग्नेः पश्चात् बर्हिरास्तीर्य। ज्यमासाद्य ततः श्टतानि हवींष्यभिघायदगुदास्य बर्हिव्यासाद्य तत इमभिघार्य अयन्त इति मन्त्रेणग्नावादध्यात् । बर्हिष्यासाद्य पुनरभिघार्येति केचित् पठन्ति ॥ १२ ॥
तूष्णीमाघारावाघायाज्यभागी जुहुयादनये स्वाहा सेामाय स्वाहेति ॥ १३ ॥
तृष्ण- ग्रहणं मन्त्रवजे. अन्ये धर्मः शास्त्रान्तरदृष्टाः कथं प्रवर्तेरन्निति। उत्तरपश्चिमाया रम्य दक्षिणपूर्वी प्रति अविच्चिन्नामाज्यधारां हरेत् तथा दक्षिणपश्चिमाया श्रारभ्य उत्तरपूर्वी प्रत्याघारयेत्. स्रुवेणोभा जुहुयात् । कुतः । यत्राज्य हा मे साधनान्तराऽनुपदेशस्तत्र स्रुवेण होम इति साधितम्. 'एवम्भूतोव्यक्तम' इति [ ट ० ] सूत्रे व्याख्यातभिः । यावन्माचं रूशास्त्रानुक्तं अपेक्षितं तावन्मात्रं ग्राह्यं नतु स्वशास्त्रे उक्तमपि. 'आज्यभागो जुहुयादग्नये स्वाहा सोमाय स्वाहा' इति । श्राज्यभागावित्यनयोयोगयोः संज्ञा ॥ १३॥
* बर्हिष्यासाद्य प्रत्यभिघार्येममित्यादि पाठः केवलमूलपु० ।
For Private and Personal Use Only