________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org
[१.१०.११
प्रोक्षणानि समन्त्रकेषु निर्वपेषु समन्त्रकाणि श्रमन्त्र केष्वमन्त्रकाणि पवित्रे अन्तर्द्धीय कुर्यादित्येवमर्थं । निर्वापप्रोक्षणे एकस्मिन्नेव पात्रे भवतः उत्तरत्र *विधानात् ॥ ७ ॥
अवहतान् चिष्फलीकृतान्नाना श्रपयेत् ॥ ८ ॥
कृष्णाजिने उलूखलं कृत्वा पत्यवहन्यात् । त्रिष्फलीकृतानिति त्रिः शुक्लीकृतानित्यर्थः । पिण्डपितृयज्ञे सकृत् प्रक्षाल्येति सकृद्रहणणदत्र चिः प्रक्षालयेत् ततो नाना श्रपयेत् ॥ ८ ॥
समाप्य वा ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीये
एकत्र वा श्रपयेत् ॥ ८ ॥
यदि नाना श्रपयेद्विभज्य तण्डुलानभिम्टशेदिदममुषमा इदममुष्मा इति ॥ १० ॥
यद्यु
यदि पृथक् श्रपयेत् तथा सति तण्डुलानभिमृशेत् इदममुना इदममुना इति । श्रमुभै-शब्दः पूर्ववत् ॥ १० ॥
वै समाप्य व्युद्धारं जुहुयात् ॥ ११ ॥
यदि समाप्य श्रपयेत् तथा सति चरुं व्युद्धृत्य एवमभिम्मृश्य ततो जुहुयात् । व्युद्धारमिति व्युद्धत्येत्यर्थः । व्युद्धरणं नामपात्रान्तरे पृथक्करणं । जुहुयादितिवचनं होमकाले व्युद्धरेदित्येवमर्थं ॥ ११ ॥
* विभावाविधानादिति सं० पु० पाठः ।
For Private and Personal Use Only