________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.७ ]
गृह्यसूत्रे ।
कामे सति कर्तव्या इत्यर्थः । 'विष्णु' बुभूषन् यजेत' इत्येवमाद्याः काम्याः । अथ काम्यानां स्थान इत्येव सिद्धे उपांशुयाजादीनामपि निषेधः कृतः । तच्चात्र काम्यत्वेनाऽपि न क्रियेरन्निति भ्रान्तिः स्यात् तन्निवृत्त्यर्थमिदं वचनम् । अथात्र किं द्रव्यमुपांशुयाजस्य तावदाज्यं तस्य विद्यमानत्वात् दृष्टत्वाच्च इन्द्रमहेन्द्रयोस्तु चरुः. मान्नाय्याभावात् ॥ ५ ॥
૪૧.
तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीनिर्वपति पविचे अन्तडीयाऽमुष्मै त्वा जुष्टं निर्वपामीति ॥ ६ ॥
प्रणीताप्रणयनोत्तरकालं शूर्पे पवित्रे अन्तर्द्धीय ब्रीहीन् यवान् वा असम्भवे अन्यान् वा हाम्यान् एकैकस्यै देवतायै चतुरश्चतुरो मुष्टान् निर्वपति. 'मुझे वा जुष्टं निर्वपाम' इति । श्रमुभैशब्दस्य स्थाने चतुर्य्य विभक्त्या देवतां निर्दिशेत् । चतुरश्चतुरं इति वोसावचनं एकैकस्यै देवतायै चतुर्मुष्टिप्राप्त्यर्थं । पवित्रे व्याख्याते ॥ ६ ॥
अथैनान् प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ७ ॥
अथशब्दः कथं सर्वासामेत्र देवतानां निस्तेषु प्रोक्षणं स्यादित्येवमर्थं । एतानिति बहुवचनं संश्लिष्टानेव प्रोचेत् न विभव्येत्येवमर्थं । यथानिरुप्तमिति तस्ये तस्यै देवतायै चत्वारि चत्वारि
For Private and Personal Use Only