________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनोये
[१. १०.५]
इयाबहिषाश्च सन्नहनम् ॥३॥ अनयोश्च बन्धनं ताभ्यां व्याख्यातं। 'दूध्मः पञ्चदशदारुकः' [ग्ट• ] इति शान्तिकर्मणि साधयिष्यामः ॥ ३ ॥
देवताश्चापांशुयाजेन्द्रमहेन्द्रवर्ज ॥ ४ ॥ देवताश्च ताभ्यां व्याख्याताः । उपांशयाजादिवर्ज। तेनाऽग्निरग्नीपोमा पौर्णमास्यां. अग्निरिन्द्राग्नी अमावास्यायां। *तदनं शौनकेन ।
'पौर्णमासी न सम्प्राप्तार्थविवाहादनन्तरं । ततः प्रक्रम्य कुर्वीत स्थालोपाकं तु कर्मसु । तत्र यद्यप्यमावास्या विवाहानन्तरं यदा॥
तथापि पौर्णमास्यादिस्थालीपाकक्रिया स्मता'। अथेन्द्रमहेन्द्रयोनिषेधः किमर्थः. सन्नयत एव हि ते विहिते. इन्द्रं महेन्द्रं वा मन्नयत इति. न चात्र मानाय्यं विहितं । उच्यते । ग्टह्यकर्माणि तावदाहिताग्नेरपीव्यन्ते अाधाने औपासनानौ. सवाधाने तु कर्मणि कर्मणि पुनः संस्कयर्यात्। सन्नयत इति कर्तविशेषणं । दर्श चासो मन्त्रयन् भवति सेोमेनेटवांश्चेत् । तेनात्राऽपि तस्य प्राप्ततः। तस्मात् निषेधः। तर्हि इन्द्राग्नी न स्यातां. श्रसन्नयत इतिवचनात्। उच्यते। इन्द्राग्नी अस्थाऽपि देवता भवत्येव. अत्र ह्यमावसनयन्निति कृत्वा । न चात्राभावः कर्मविशेषणम् ॥ ४ ॥
काम्या इतराः ॥५॥ उताभ्योऽन्या या उपांशयाजाद्या देवताः ताः काम्या भवन्ति ।
* तदुक्तमित्यारभ्य स्मृतेत्यन्तं सं० पु. नास्ति ।
For Private and Personal Use Only