________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाश्वलायनीये
[१. ८. १.]
पयेत् । विवाहाग्निग्रहणं अन्यनिवृत्त्यर्थं । कथं पुनरन्याग्निप्राप्तिशङ्का. 'ग्टह्याणि वक्ष्यामः' [ग्ट ० १।१।१] इति प्रतिज्ञातम् । उच्यते। दायविभागकाले अग्निः परिग्टह्यते चेत्. अत्राप्यन्योऽग्निः प्रसज्येत. तन्निवृत्त्यर्थमिदं । अपि चात्र विवाहानियहणत् न विवाहहोममाबेण अग्नेर्टह्यत्वसिद्धिः किन्तर्हि ग्टहप्रवेशनीयहोमे कृते। एवमुभाभ्यां होमाभ्यां ग्राह्यत्वसिद्धिः नैकेनेति ज्ञायते। तेन ग्रहप्रवेशनीयहोमादाक् दर्शपूर्णमासप्राप्ती पार्वणस्थालीपाको न कार्यः। परिचरणहोमस्तु कार्य एव. 'पाणिग्रहणादि' [ग्ट • १।६।१] इति वचनात्। वैश्वदेवं च कार्यमेव. तस्यामिविशेषविध्यभावात्। तेनामिनाशे होमदयं कार्यमिति सिद्धं । उपसमाधायेति पास्तरणकालोपदेशाथ। अथवा समानकर्टकत्वमिद्ध्यर्थ. तेन यत्रोपसमाधानग्रहणं नास्ति तत्राऽन्यो वोपसमाधानं कुर्यात्। तस्मिन्नितिवचनं चर्मस्तरणानन्तरं *तन्त्रान्तरमितिज्ञापनार्थं। प्रत्युचग्रहणं कथं. ऋगन्ते होमः स्थात् न खाहाकारान्त इत्येवमर्थ। स्वाहाकारं पठन् जुहुयादित्यर्थः। तेन यत्र प्रत्युचग्रहणं नास्ति तत्र स्वाहाकारं कृत्वा पश्चात् हामः। श्राज्यशेषेण वेति सिद्धवदुपदेशात् अनादेशे श्राज्येन होम इति गम्यते ॥ ६ ॥
अक्षारालवणाशिनी ब्रह्मचारिणावलंकुवाणावधःशायिनौ स्यातां ॥१०॥
विवाहादारभ्य एते नियमा भवन्त्युभयोः । * तन्लान्तरमित्यस्य स्थाने अङ्गान्तरं कर्तव्यमिति सं० पु० पाठः ।
For Private and Personal Use Only