________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ८.६]
ग्रह्यसूत्रे।
इह प्रियं प्रजया ते समुध्यतामिति गृहं प्रवेशयेत् ॥८॥
अनया वधू ग्टई प्रवेशयेत्। इदमादयो विधयः खग्रामेऽपि विवाहे भवन्ति ॥ ८॥
विवाहानिमुपसमाधाय पश्चादस्याऽऽनडुहं चमीस्तीर्य प्राग्नीवमुत्तरलाम तस्मिन उपविष्टायां समन्वारब्धायाम्. आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यूचं हुत्वा. समजन्तु विश्वेदेवा इति दनः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये ॥६॥
अग्निप्रणयनान्तं कृत्वाऽग्निमुपसमादधाति. समिधः प्रक्षिष्य प्रज्वलयतीत्यर्थः। ततः पश्चादस्याऽऽनडूई चर्मास्तृणति. प्रागग्रीवमुत्तरलोम अईलोम. ततोऽन्वाधानाद्याज्यस्य बर्हिषि सादनान्तं कृत्वा तस्मिन् चर्मण्युपविष्टायां समन्वारब्धायां वध्वां. इभाधानाद्याज्यभागान्तं कृत्वा. श्रा नः प्रजामिति चतसृभिः प्रत्यचं हत्वा. ततः समञ्जन्त्वित्यचा दन्न एकदेशं स्वयं प्राश्य वध्वे प्राशनार्थं शिष्टं दधि प्रयच्छेत् । सा तु वृष्णीं प्राश्नाति। मत् प्रयुक्तस्य मन्त्रस्य उभयप्राशनार्थत्वात् उभयार्थत्वम्. नाविति द्विवचनात्। श्राज्यशेषेण वा उभयो हृदये अनक्ति. तेनैव मन्त्रेण । हृदये श्रत ऊईमिति विवृत्या पाठः कार्यः. प्रग्टह्यत्वात्। ततः विष्टकतादि समा
For Private and Personal Use Only