________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाश्वलायनीये
[१. ८.७]
उत्तरेणोत्वमयेत् ॥३॥ उत्तरेणार्द्धन. अत्राजहामेत्यर्द्धन वधूमुदकदुत्तारयेत् ॥३॥
जीवं रुदन्तीति रुदत्यां ॥४॥ नीयमाना वधूः यदि रोदिति बन्धुवियोगात् तदा एताअपेत् । अयं विधिः स्वग्रामेऽपि भवत्यविशेषात्॥ ४ ॥
विवाहाग्निमग्रताऽजसन्नयन्ति ॥५॥
विवाहानिग्रहणं अग्निविशेष नियमाभावशङ्कानिवृत्त्यर्थे। अजस्रग्रहणं प्रियमाणस्य *नयनार्थं । तेनान्यत्र प्रयाणे समारोपणं कृित्वा नयनं गम्यते । अयञ्च विधिः स्वग्रामेऽपि भवत्यविशेषात्॥ ५ ॥
कल्याणेषु देशवृक्षचतुष्यथेषु. माविदन् परिपन्थिन इति जपेत् ॥६॥ ___ कल्याणेषु विवाहादिशोभनेषु देशवृक्षच तुष्यथेषु एताञ्जपेत् ॥ ६ ॥
वासे वासे सुमङ्गलीरियं वधूरितीक्षकानीक्षेत ॥७॥
वसती वसतो ईक्षकाः सन्ति चेत् तानेतया ईक्षेत। वासादन्यत्रेक्षणे मन्त्रः। वीमावचनं प्रतिवस्तो मन्त्रप्राप्य) ॥ ७ ॥
* नियमार्थमिति सं. पु. पाठः। कृित्वा नयनमित्यत्र कुर्यादिति सं० पु. पाठः ।
For Private and Personal Use Only