________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायमोये
[१. ७.६]
तरि पुत्वशब्दं प्रयुञ्जाना दृश्यन्ते एहि पुत्तेति। मन्त्रे च दृश्यते। 'पुमांस्ते पुत्तो जायताम्' इति । तस्मात् पुमांमः पुत्रा इति विशेषणं । अथवा । पुन्नाम्नो नरकात् यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ इति ॥ [मनुः १३८]
एवंविधः स पुत्त्रो जायेत न प्रथमप्रकृतिमात्रमित्येवमर्थमुभयोग्रहणम् ॥ ३॥
अङ्गुलीरेव स्त्रीकामः॥४॥
एवकारोऽङ्गुष्ठनिवृत्त्यर्थः । स्त्रीकामो दुहिदकाम इत्यर्थः ॥४॥
रोमान्ते हस्तं साङ्गुष्ठमुभयकामः ॥ ५ ॥
उभयकामः पुत्त्रदुहिटकामः अङ्गुष्ठाङ्गुलीभिः सह हस्तं ग्टबीयात् ॥ ५॥
प्रदक्षिणमनिमुदकुम्भञ्च त्रिः परिणयन् जपति । अमोहमस्मि सा त्वंसा त्वमस्यमाहं द्यौरहं पृथिवी त्वं सामाहमक् त्वतावेह विवहावहै प्रजां प्रजनयावहै सम्प्रिया रोचिष्णू सुमनस्यमाना जीवेव शरदः शतमिति ॥ ६॥
अग्निमुदकुम्भञ्च त्रिःप्रदक्षिणं वधूः स्त्रीः परिणयन् जपति ।
For Private and Personal Use Only