________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.७.३]
गृह्यसूत्रे ।
कृत्वा समन्वारब्धायां वध्वां माभ्वाधानान्तं हत्वा ततः पूर्वोक्ता आज्याजतीर्डला तिष्ठन् प्रत्यङ्मुखः प्राङ्मुख्या आसीनाचा अङ्गुष्ठमेव गृहीयात् गृहामीत्युक्का पुत्रकामश्चेत् । मन्त्रस्तुत्तरयोरपि हस्तग्रहणयोर्भवत्येवायं । दृषत् प्रसिद्धा । श्रश्ा तत्पुत्रकः । तत्रोभयोः प्रतिष्ठापनं मिद्धम् । एवं चेत् दोषः । ' अश्मानमारोहयति' [ग्ट०१। ७।७] इत्यत्र पुत्रकारोहणं स्यात् । तर्हि अश्मग्रहणं तस्य विशेषणं स्यात् । दृषदमश्मानमिति अमयोमित्यर्थः । मृणमय्यपि हि लोके दृषद्दिद्यते । तर्हि पुत्रकप्रतिष्ठापनं न स्यात् । न । स्यादेव मङ्गलार्थत्वात् । दक्षिणतः पत्युपविशेत्. उत्तरतः पतिरिति शास्त्रान्तरे दृष्टं। स्स्रुवेण होम: साधनान्तराऽनुपदेशात् । एवम्भूताव्यक्त होमेत्यनेनैवावस्थाने सिद्धे 'तिष्ठन् समिधमादध्याद्' [श्री . ] इत्यत्र तिष्ठन्-ग्रहणं कथं । अन्यत्रासीनस्य कर्मणि स्युरित्येवमर्थं । ततोऽत्राप्यासीनप्राप्तैा तन्निवृत्त्यर्थं तिष्ठन् - ग्रहणं । प्रत्यङ्मुख इति प्राङ्मुखत्वनिवत्त्यर्थं । 'तस्य नित्याः प्राञ्चश्चेष्टाः [श्रौ ०११९] इत्यनेन प्राङ्मुखत्वे सिद्धे प्रामुख्या श्रासीनाया इति वचनं प्रत्यङ्मुखाधिकारनिवृत्त्यर्थं । श्रामीनाया इत्येतत् कथं । इत उत्तरं वध्वा विहितं कर्म तिष्ठन्त्या स्यादित्येवमर्थं । 'उत्तानोत्तानं पाणिं गृह्णीयात् नीचेन चोत्तानम्' इति शाखान्तरे दृष्टं । पुत्रशब्दः पुंसि स्त्रियाञ्च स्मृतैौ दृष्टः ।
1
'त वा कृता वापि यं विन्देत् सदृशात् सुतं ।
पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनं ॥ इति ॥ [मनुः ६।१३६ ] दौहित्रेण मातामहः पौत्री भवति इत्यर्थः । लोके च दुहि
E 2
For Private and Personal Use Only