________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्र।
अष्टा पिण्डान् कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत् सत्यं तदृश्यतामिति पिण्डानभिमन्व्य कुमारों ब्रूयादेषामेकं गृहाणेति ॥ ५ ॥
क्षेत्रादिभ्योऽष्टम्या मृदमाहृत्याऽटो पिण्डान् कृत्वा 'तमग्रे' इत्यनेन मृत्पिण्डानभिमन्य कुमारों ब्रूयादेषामेकं ग्टहाणेवि। पुनःपिण्डग्रहणं कुमार्या अभिमन्त्रणं माभूत् । सापि हि द्वितीया निर्दिया ॥ ५ ॥
क्षेत्राच्चेदुभयतःसस्यादृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्याहोष्ठात् पशुमती वेदिपुरीषाब्रह्मवर्चस्विन्यविदासिना हुदात् सर्वसम्पन्ना देवनाकितवी चतुष्पथाद्दिप्रवाजिनीरिणादधन्या श्मशानात् पतिनी ॥६॥ ॥५॥
उभयतःसस्यात् क्षेत्रादाहृतं मृत्पिण्डं ग्टहीयात् चेत् अस्याः प्रजा अन्नवती भविष्यतीति विद्यात् । एवमुत्तरत्रापि नेयं । यदेकस्मिन् संवत्सरे द्विः फलति तदुभयतःमस्यं क्षेत्रं । अपवृत्ते कर्मणि या वेदिस्तस्याः पुरीषं । अविदासिहदो नामाऽशष्यं हुदं । देवनं द्यूतम्यानं । यत्रोप्तबीजं न प्ररोहति तदिरिणं । द्वौ प्रव्रजतीति
For Private and Personal Use Only