________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याश्वलायनीये
[१. ६. १० विप्रवाजिनी। खैरिणीति यावत् । पतिं हन्तीति पतिनी। अत्र प्रजास्तुतिनिन्दाद्वारेण सैव स्तुता निन्दिता चेति मन्तव्यं । उत्तरस्त्रभिवाक्यैः सैव निन्द्यते ॥ ६ ॥
इति प्रथमे पञ्चमी कण्डिका ॥०॥
अलंकृत्य कन्यामुदकपूर्वी दद्यादेष ब्राह्मो विवाहः। तस्यां जातो हादशावरान हादश परान पुनात्युभयतः। ऋत्विजे वितते कर्मणि दद्यादलंकृत्य सदैवो दशावरान् दश परान पुनात्युभयतः। सह धर्म चरतं इति प्राजापत्योऽष्टावरानष्ट परान पुनात्युभयतः। गोमिथुनं दत्त्वोपयच्छेत स आषः सप्तावरान् सप्त परान् पुनात्युभयतः। मिथः समयं कृत्वोपयच्छेत स गान्धर्वः। धनेनापताष्योपयच्छेत स आसुरः। सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः। हृत्वा भित्त्वा च शीषीणि रुदतों रुदो हरेत् स राक्षसः ॥ १॥ ॥६॥
कन्यामलङ्घत्य उदकपीं दद्यात्। एष विवाहो ब्राह्ममंज्ञो भवति । तस्यां कन्यायां जातो द्वादशाऽवरानुत्पत्स्यमानान् द्वादश परान् पुनाति। उभयतो मातः पित्तश्चेत्यर्थः । एवमुत्तरत्रापि नेयं । वितते कर्मणीति वैतानिके कर्मणोत्यर्थः । मियाममयकरणं नाम त्वं
For Private and Personal Use Only