________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ४.७]
ग्टह्य सूत्रे।
नैके काञ्चन ॥ ६ ॥
एके प्राचार्याः कामप्याहुतिं नेच्छन्ति । नैक इत्येव वक्रव्ये काञ्चनग्रहणमृगाहुतोनां व्याहृत्याहुतीनां चायं प्रतिषेधो यथा स्यात्-किम्शब्दस्य सर्वनामत्वात् सर्वनाम्नाञ्च प्रकृतपरामर्शत्वात्अन्यास्त्वाहुतयो होतव्या इत्येवमर्थे । तेनाऽनादेशातयः सिद्धाः ॥ ६ ॥
त्वमर्यमा भवसि यत् कनीनामिति विवाहे चतुथों ॥ ७॥
॥४॥
. अत्र संशयः। पूर्वस्या बाध उतोत्कर्ष इति । उत्कर्ष इति ब्रूमः । असमानजातित्वात् । समानजातेरेव हि बाधो विहितः । एष समानजातिधर्म इति तच्छब्दचोदितश्च समानजातिर्भवति । यथा । अथ सामिधेन्यः ताः सामिधेन्य इति। अत्र च तच्छब्दचोदितत्वात् न बाधः। अपि तत्कर्षः । यथा 'प्रतिप्रस्थाता वाजिने बतीयः' इत्यत्र श्राग्नीध्रस्योत्कर्षः तद्वदत्रापि । अपि च। सङ्ख्यानिदियो न पूर्व बाधते। यत्र तु बाधते तत्र स्थानग्रहणं करोति । यथा हतीयाहुतिस्थाने महाव्रतमिति। तस्मात् उत्कर्ष इति सिद्धम् ॥ ७॥
इति प्रथमे चतुर्थी कण्डिका ॥०॥
For Private and Personal Use Only