________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । त्वेत्यभिमृशति । अस्य मन्त्रस्य प्रजापतिषिर्यजुः प्रजापतिदेवता दक्षिणस्कन्धस्पर्शने विनियोगः । प्रजापतये त्वा परिददाम्यसौ ॥ अवासावित्यस्य स्थाने सम्बोधनान्तं नाम । अथाचार्यो वामहस्तेन माणवकस्य वामांसमभिमशति मन्त्रेण । मन्त्रस्य प्रजापतिषिर्यजुस्सविता देवता वामांसस्पर्शने विनियोगः । देवाय त्वा सवित्रे परिददाम्यसैौ । अवापि सम्बोधनान्तं नाम । अथ गृहीतांसहयं माणवकमाचार्यस्समादिशति ब्रह्मचार्य्यसीतिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिर्यजुरग्निर्देवताऽऽदेशने विनियोगः । ब्रह्मचार्यस्थसौ ॥ अवापि सम्बोधनान्तं नाम ग्रहणम । बाढमोमिति वा ब्रयान्माणवकः प्रत्यादेशम् । आचार्यणान्येप्यादेशा बोधयितव्याः । तद्यथा । समिधमाधेहि । माणवको बाढमिति प्रतिवदेत् । अपोऽशान । बाढम् । कर्म कुरु । बाढम् । मा दिवा स्वाप्सी: । बाढम । अग्नेरुत्तरतो गत्वाऽऽचार्यः प्रामख उपविशत्युदगग्रेषु दर्भेषु । अथाग्नेरुत्तरत उदगग्रेषु दभधाचा-भिमुखो दक्षिणजानु भूमौ निधाय माणवकः प्रत्यङ्मुख उपविशति । अथाचार्या माणवक्रमियं दुरुक्तात तस्य गोप्त्रीतिमन्त्रयं वाचयन कटिप्रदेशे प्रादक्षिण्येन मञ्जमेखलां विवारमावेषव्य प्रवरसंख्यया अन्थिं करोति । मन्त्रदयस्य प्रजापतिषिरुषिणक्छन्दाग्निमग्खला वा देवता मेखलापरिधापने विनियोगः ॥ यं दुरुक्तात्परिबाधमाना वर्ण पवित्रं पुनती म आगात । प्राणापानाभ्यां बलमाहरंती स्वसा देवी सभगा
For Private And Personal