________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । माणवकस्याप्यञ्जल्यत्सर्गः । मन्त्रेऽसावित्यस्य स्थाने माणवकस्य सम्बोधनान्तं नामोच्चारयेत । अस्य मन्त्रस्य प्रजापतिषियजुस्सविता देवता हस्तग्रहणे विनियोगः । देवस्य ते सवितः प्रसवेऽश्विनोबाहुभ्यां वृष्णो हस्ताभ्यां इस्तं गृह्णाम्यसौ ॥ अथाचार्य्यस्त स्मिन्नेव देशे प्रत्यमखमवस्थितं माणवकं प्रादक्षिण्येन प्राङ्मुखं करोति । सूर्यस्यातमन्वावर्त्तवासाविति । अचाप्यसावित्यस्य स्थाने पूर्ववन्नामग्रहणम् । अस्य मन्त्रस्य प्रजापतिषिर्यजुस्मा देवता माणवक्रस्यावर्त्तने विनियोगः । सूर्यस्यारतमन्वावर्त्तवासी ॥ अथाचार्य्यस्वदक्षिणहस्तेन माणवकस्य दक्षिणांसं तूष्णीं स्पृष्ट्वा वस्त्रादिनाऽनाच्छादितां माणवकस्य नाभिं प्रणानां ग्रन्थिरितिमन्नेणाभिमशति ॥ अस्य मन्त्रस्य प्रजापतिषिर्यजुरन्तको देवता नाभिस्पर्शने विनियोगः । प्राणानां ग्रन्थिरसि मावित्रंसो. न्तक इदं ते परिददाम्यमम ॥ अमुमित्यस्य स्थाने द्वितीयान्तं माणवकस्य नामोच्चार्य्यम् । ततो नाभिदेशादुपरि जठरदेशे हस्तमवस्थाप्याहुर इतिमन्त्र जपनि । अस्य प्रजाप्रजापति
षिर्यजुर्वायुर्देवता जठराभिमर्शने विनियोगः । अहुर इदं ते परिददाम्यमुम् ॥ १ ॥ अमुमित्यत्र द्वितीयान्तं नाम । अथ हृदयदेशमभिमश्य कृशन इतिमन्त्रं पठेत् । अस्य मन्त्रस्य प्रजापतिषिर्यजुरग्निवता हृदयस्पर्शने विनियोगः । कृशन इदं ते परिददाम्यमम् ॥ २ ॥ अवापि द्वितीयान्तं नाम । अथाचार्या दक्षिणहस्तेन माणवकस्य दक्षिणांसं प्रजापतये
For Private And Personal