________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८८
गोभिलीयकर्मप्रकाशिका |
माणवकस्याज्ञ्जलिमाचार्य्यज्ञ्जलिं चोदकेनापूरयति । श्राचायज्ञ्जलेरुपरि माणवकाज्ञ्जलिर्भवति । ततो माणवकं पश्यन्नाचार्य आगन्त्रेतिमन्त्रद्दयं जपति । आगन्त्रेतिमन्त्रस्य प्रजापतिऋषिरनुष्टुप्छन्दोऽग्निर्देवता, अग्निष्ट इति प्रजापति: परिग्न्यादयो देवता, माणवकप्रेक्षणे विनियोगः । श्रागन्त्रा समगन्महि प्रसुमत्त्यं युयात न | अरिष्टासश्वरमहि स्वस्ति चरतादयम् ॥ १ ॥ अग्निष्टे हस्तमग्रहीत्सविता हस्तमग्रही दर्य्यमा हस्तमग्रहीन्मिचस्त्वमसि कर्मणाऽग्निराचार्यस्तव ॥ २ ॥ ततो ब्रह्मचर्य्यमागामिति वाचयति । अस्य मन्त्रस्य प्रजापतिऋषिर्यजुराचार्यो देवता माणवकवाचने विनियोगः । ब्रह्मचर्य्यमागामुप मा नयस्व || को नामाऽसीति माणवकस्य नामधेयं पृच्छत्याचार्य: । ततो देवताश्रयं वा, नक्षचाश्रयं वा गोचाश्रयं वा ऽभिवादनीयं नाम परिकल्या मुम्मस्मीति माणवकं वाचयेत् । शिवो विष्णुरित्यादिदेवतानाम | आश्वयुज:, आपभरणः, कृत्तिकः, रौहिण, इत्यादि जातार्थततान्तं नक्षत्रनाम परिकल्पयेत् । 'सूक्तवाके प्रसिद्धमेतत् । तत्र कपर्हिस्वाम्यपि विशेषमाह । “रोरेवमृज्येचिषु वृद्धिरादैौ ष्ठात् फाञ्च वान्त्यश्रवणाश्वयुक्षु । शेषेषु नाम्बाः कपरस्स्वरेऽन्त्यस्स्व घोरदीर्घस्सविसर्ग इष्टः ॥ १ ॥ गेोचनामवात्सः, और्वः, गार्ग्यः, इत्याद्यम् । तत श्राचार्य्य उदकाञ्जलि त्यक्ता दक्षिणहस्तेन माणवकस्य दक्षिणहस्तं साङ्गुष्ठं परिगृह्णाति देवस्य ते सवितुरितिमन्त्रेण । अत्र
""
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal