________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८६
गोभिलीयगृह्मकर्मप्रकाशिकी
I
कटिसूत्रं बध्वा, वस्त्रं परिधाप्याचमनं कारयित्वा, यज्ञोपवीतं मन्त्रेण धारयेत् | धारणसंकल्पस्तु श्रौतस्मार्त्तसकल नित्यनैमि त्तिककर्मानुष्ठानयोग्यता सिद्धये ब्रह्मतेजोऽभिरार्थं यज्ञोपवीतधारणं करिष्ये । यज्ञोपवीतमितिमन्त्रस्य प्रजापतिषिर्य - जुर्यज्ञोपवीतं देवता यज्ञोपवीत धारणे विनियोगः । यज्ञोपवीतमसि यज्ञस्य त्वापवीतेनोपन ह्यामि । श्रयच्च मन्त्रः शाखान्तरे पठितो भट्टनारायणेोपाध्यायैः परिगृहीतः । अग्नेरुत्तरतो यज्ञोपवीतिना माणवकेन दिराचमनं कारयित्वा स्वदक्षिणभागे प्राङ्मुखमुपवेशयेत् । ब्राह्मणादेर्वस्त्रादिकमाच 'गोभिल:' । “ब्राह्मणस्य क्षौमं, क्षत्रियस्य काप्पासं, वैश्यस्यासावस्त्त्रं, शाणं वा” । ब्राह्मणस्येति विकल्पः । “कृष्णमृगाजिनं ब्राह्मणस्य, क्षत्रियस्य रुरुमृगाजिनम्, वैश्यस्याजाजिनम्" । “ब्राह्मण य मैज्जमेखला, क्षत्रियस्य काशमयी, वैश्यस्य शाणी”। “पालाशो ब्राह्मणस्य दण्डः, क्षत्रियस्य बैल्वो, वैश्यस्याश्व त्यो दण्डः” । तलक्षणं तु “कर्मप्रदीपे” । “केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञस्स्यात्त नासान्तिको विशः ॥ १ ॥ तु सर्वे स्यर व्रणास्सैौम्यदर्शनाः । अनुद्वेगकरा नृणां सत्वचे। नाग्निदूषिताः ॥ २ ॥ तत्तद्दर्णस्योक्तवस्त्राजिन मेखलादडालाभे सर्वेषां वर्णानां सर्वे वस्त्राजिन मेखलादण्डा यथासम्भवं ग्राच्याः । तत श्रज्यतन्त्रेणाज्य संस्कारान्तं कुर्य्यात् । पाचासादने विशेषः । प्रकृतिवत्पाचाण्यासाद्य तत्तदर्णविचितवस्त्रा जिनमे - खलादण्डभिक्षापात्राणि प्राक् संस्थान्यग्नेरुत्तरत श्रसादयेत् ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal