SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोमिलीयगृह्मकर्मप्रकाशिका । कालातिक्रमणे पतितसाविचीका भवन्ति । नैनानुपनयेयुः । न याजयेयुः । नाध्याययेयुः । नैभिर्विवहेयुः । “स्मत्याद्युक्तमायश्चित्ताननुष्ठाने उक्तनिषेध" इति व्याचख्यः । उदगयने शुक्लपक्षे, पुण्यनक्षत्र, पूर्वाह्ने, उपनयनं करिष्यन् तदङ्गं विश्राद्धं तद्दिने पूर्वदिने वा कुर्यात् । विश्राद्धात्पूर्व उपनेतृत्वाधिकारसिद्धये कृच्छत्रयं चरित्वा हादशसहस्रगायची जपेत् । कुमारेणापि कामचारकामवादकामभक्षणादिदोषापनोदार्थ कच्छचयं मुख्यविधिना तत्प्रत्याम्नायगोदानादिविधिना वा कारयेत् । तथा ममोपनेतृत्वाधिकारसिड्ये कृच्छत्रयं हादशसहस्रगायचीजपच्च करिष्ये । स्वयं जपकरणाशक्ती ब्राह्मणद्दारा वा कारयेत् । कुमारेणापि कामचारकामवादकामभक्षणादिदोषापनोदार्थं कृच्छत्रयं प्रत्याम्नायगोनिष्क्रयादिद्दारा करिष्ये इति सङ्कल्य गोनिष्क्रयद्रव्यं ब्राह्मणेभ्यो दातुमहमुत्सजे इति दद्यात् । यस्मिन्नहनि माणवकमुपनेष्यन् तस्मिन्नहनि ते भोजयति, वापयति, सापयत्यलङ्करोति । अत्रापि सशिख वपनं । “तदुक्तं 'कर्मप्रदीये' । सशिखं वपन कार्यमास्नानाब्रह्मचारिण” इति। केचित् “प्रथमं वपनं, ततः स्नानं, ततो भोजनमिति"। ततः पत्न्या, सुनातेन माणवकेन, च सह पवित्रपाणिः पिता ब्राह्मणानुज्ञापूर्वकं प्रामुख उपविश्य प्राणानायम्य देशकाला सङ्कीर्त्य हिजत्वसिइये इमं माणवकमुपनेष्यामीति सङ्कल्य गृहस्य पुरस्तात्स्थण्डिले विधिवत्समद्भवनामानं लौकिकाग्निं प्रतिष्ठाप्य माणवकं स्वदक्षिणभागे उपवेश्य, For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy